________________
२९९
_ समतामहोदधिः महाकाव्यम्
शुष्कालाबुसमं शीर्ष,
श्रीपद्मानां तदाऽभवत् । उभावप्यधरौ शुष्का
वन्तर्गते च लोचने ।।३३।।
शुष्कपलाशपर्णेन,
तुल्या जिह्वाऽभवत्तथा । अगुल्यः शुष्कशिम्बाभि
रदृश्यन्त समाः पृथग् ।।३४।।
बहिर्दर्शितवन्तौ द्वौ,
चास्थि निर्गत्य कूर्परौ । तेषामभवतां जर्छ,
सुशुष्के तालवृक्षवत् ।।३५।।
अनेका ग्रन्थयो देहे,
प्रादुर्भूताश्च सर्वतः । उत्थानेऽस्थीन्यकूज॑श्च,
चलन उपवेशने ।।३६।।