________________
२९७
- समतामहोदधिः महाकाव्यम्
निर्गच्छति गृहस्वामी,
तीव्रज्वालाकरालितात् । सारभूतानि वस्तूनि,
गृहीत्वा स्वगृहाद्यथा ॥२९॥ कर्त्तव्यं मांसरक्ताभ्यां,
देहस्थाभ्यां तपस्तथा । कर्मभित्परलोकं तु
सुसाधकेन गच्छता ।।३०।। युग्मम् ।।
अशक्ताः स्वयमासँस्त,
ऊर्ध्वस्थाने निषीदने । प्रहर्तुं तपसा काय
मैच्छंस्ततोऽधिकं तदा ।।३१।।
तदीया साधना धन्य
मस्मारयन्मुनिं वरम् । दग्धाङ्गारसमा यस्य,
जाता साधनया तनुः ।।३२।।