________________
२८९ -
समतामहोदधिः महाकाव्यम्
तत्र पद्मः ‘महावीर
चरियं पठितं तथा । संवेगजाः प्रसङ्गास्तु
पुस्तके लिखितास्ततः ।।१३।।
पठनं मननं तेन,
कृतवन्तश्च भावनम् । तेऽद्भुतां तीव्रपीडासु,
ततः समाधिमाप्नुवन् ।।१४।।
स्थिते तु वसतेरग्रे,
__ नगरश्रेष्ठिनो गृहे । उपरितनभूमौ ते,
स्थिताः सुस्वस्थताकृते ।।१५।
सहनशीलतां चर्या
मप्रमत्तां तपस्तथा । दशासु प्रतिकूलासु
तेषां दृष्ट्वा स विस्मितः ।।१६।।
१. सः = नगरश्रेष्ठी ।