________________
२८७
श्री भानुविजयैः सार्धं, विवेचनेन भाणिता ।
तथाष्टापदपूजा सु
स्वरेण भावपूर्वकम् ।।९ ॥
श्रीपद्मविजयास्तेषा
. समतामहोदधिः महाकाव्यम्
मेकाग्रचेतसा मुदा ।
व्याख्यानं बहुमानेन,
सहाशृण्वन्पराशयाः ।।१०।।
पद्मा आत्मार्थिनोऽकुर्वन्, नित्यमात्मनिरीक्षणम् ।
मयि न के गुणाः सन्ति ?
दोषाः सन्तीति के मुहुः ? ।।११।।
प्रह्लादने स्थिता मासा
वुपवासाः कृताः सुखम् ।
पृथक्पृथगनेके तै
स्तीव्रधर्म दिनेष्वपि ।।१२।।