________________
२७९
समतामहोदधिः महाकाव्यम्
तस्याः शान्त्यै तु तैर्बद्ध
पट्टकः शिथिलीकृतः । निरगच्छबहिस्तूर्णं,
नूतननलिका ततः ।।५३।।
रुद्ध आहारपानीये,
तदीये सर्वथा ततः । कर्माधीनस्य जीवस्य,
जायते कीदृशी दशा !||५४ ।।
सिरोहिनगरात्सन्ध्या
काले वैद्यः समागतः । स्वीयस्थाने पुनर्नून
नलिका तेन योजिता ।।५५।।
सूर्यास्तसमये शक्ता,
ग्रहीतुं जलमेव ते । उपवासस्ततो जात
स्तेषां तस्मिन्दिने खलु ।।५६।।