________________
२७७.
.समतामहोदधिः महाकाव्यम्
सिरोहेरागतः शस्त्र
कर्मनिष्णातडोक्टरः । नूतननलिकां योक्तुं,
श्रीपद्मविजयोदरे ।।४९।।
शलाकास्तेन लोहस्य,
तदुदरे प्रवेशिताः । सङ्कुचितस्य रन्ध्रस्य,
पृथुकरणकारणम् ।।५०॥
असह्या वेदना सोढा,
__ह्यतीव त्रासदायिनी । तदा तैर्नलिका नूत्ना,
वैद्येन सुष्ठु योजिता ।।५१।।
नलिकया कृतं कार्य,
स्तोकदिनानि शोभनम् । युक्तदेशेऽन्यदा रात्रौ,
तीव्राऽजायत वेदना ।।५२।।