________________
२७५
समतामहोदधिः महाकाव्यम्
अस्माभिः समयेऽस्मिंस्तु,
दृढा कार्या सहिष्णुता । विमुच्याऽधिकदुर्थ्यानं,
परमलोकसाधकैः ।।४५॥सप्तभिः कुलकम्।।
पारणानन्तरं स्तोक
दिनानि सुखपूर्वकम् । गतानि परमारब्धा,
ततो नूतनवेदना ।।४६॥
नलिकर्षणमारब्धं,
भृशं वैद्यो हरिस्ततः । मोहमय्याश्चिकित्साय,
पुर्याः शीघ्रं समागतः ।।४७।।
प्राचीनां नलिकां त्यक्त्वा,
योक्तव्या तत्र नूतना । कर्षणवेदनाशान्ति
हेतोस्तेनेति सूचितम् ।।४।।