________________
२६९.
समतामहोदधिः महाकाव्यम् प्रबलचित्तयुक्तेन,
किन्त्वनेन महात्मना । स्थिता मनसि सर्वेषां,
धारणा वितथीकृता ।।३३।।
पञ्चम्यामपि शुक्लाया
मुपवासस्तु तैः कृतः । अकुर्वन्नुपवासं ते,
प्रतिदिनं ततः परम् ।।३४।।
उपवासे तु ते पञ्च
विशे पत्रेऽलिखन्निति । तपसोऽन्वभवं साक्षा
द्वौ लाभौ सुन्दरावहम् ।।३५।। मस्तकवेदना हीना,
गलाज्जलमवातरत् । प्रभावात्तपसोऽचिन्त्यात,
पटोः कर्मारिभेदने ।।३६।।।। युग्मम् ।।