________________
२४७.
समतामहोदधिः महाकाव्यम्
सम्पूर्णेऽपि शरीरे तु,
प्रसृते केन्सरे नरः । जीवेवैद्यकविज्ञाने
प्रसङ्ग इति नूतनः ।।१४२॥
ते पुनरपि रोगेण,
प्रहृता दीपपर्वणि । आयुषा कर्मणा किन्तु,
प्रबलेन प्रमोचिताः ।।१४३।।
तेषां ग्लानिं विभाव्य तु,
चातुर्मासादनन्तरम् । तत्रैव ह्यधिकं पूज्याः,
श्रीप्रेमसूरयः स्थिताः ।।१४४।।
सुरेन्द्रनगरे पूज्या,
दशमासान्स्थितास्तदा । आराधनाः कृताः पद्म
स्तत्राऽन्योत्साहवर्धिकाः ।।१४५।।