________________
२४५
समतामहोदधिः महाकाव्यम् अवर्धत यथा रोग
स्तेषां तथाऽऽत्मचिन्तनम् । स्वाध्यायमग्नताध्यान
सुसंयमादयोऽपि च ।।१३८॥
सत्कृपया गुरूणाञ्च,
बलेन ह्यन्तरात्मनः । समचित्तैस्तु तैर्व्याधि
विसोढो जीवितापहृत् ।।१३९ ।।
व्रतपरिणतिस्तेषां,
सहनशीलता तथा । अनन्यगुणरत्नानि,
व्यस्मापयञ्जनान्समान् ।।१४०।।
मोहमय्या नगर्या द्वि
हरिवैद्यः समागतः । विस्मितहृदयः सोऽपि
दृष्ट्वा तान्समजायत ।।१४१।।