________________
२३५ -
_ समतामहोदधिः महाकाव्यम्
राजकोटपुरात्सार्धं,
सुवैद्यदस्तुरेण सः । चतुर्वादन आगच्छत्,
सन्ध्यायां गुरुभक्तिभाक् ।।११।।
पद्मानामन्ननल्या तु,
छिद्रं रोगप्रभावतः । सजातमिति वैद्येन,
प्रोक्तं दृष्ट्वा तु तत्स्थितिम् ।।११९।।
अन्नोदके गृहीते तैः,
प्राणनल्यां प्रविश्य तत् । तीव्रकाशनपूर्वं तु,
निर्गच्छतो बहिस्ततः ।।१२०।।
पृष्टं पूज्यैरतः कार्य,
किमिति स ततोऽवदत् । केन्सरवारणोपायः,
कश्चन नैव विद्यते ।।१२१।।