________________
२३१.
-समतामहोदधिः महाकाव्यम्
तत्कृताभ्यश्च शेषाणा
मोलीनां कारणं तथा । तपसो वर्धमानस्य,
गुरुभक्तिरतेन तु ।।११०
॥ युग्मम्।।
इत्थमाराधने जाते,
द्वे शुभभावपूर्वके । चतुर्विधस्य सङ्घस्य,
पवित्रसमुपस्थितौ ।।१११॥
पञ्चमहाव्रतानां तैः,
पुनरुच्चारणस्य तु । आराधना समारब्धा,
तृतीया प्रमुदा ततः ।।११२।।
कान्तिविजयपंन्यासः,
श्रीजिनबिम्बसाक्षिकम् । महाव्रतानि तैः पञ्च,
पुनः समुदचारयन् ।।११३।।