________________
२२९
समतामहोदधिः महाकाव्यम्
अन्यस्थाने वसद्भिश्च,
सह क्षमापना कृता । पत्रद्वारेण तैः शल्य
रहितैर्भवभीरुभिः ।।१०६।।
सपादलक्षवृत्तानां,
___स्वाध्यायः प्रेमसूरिभिः । तदा तत्संयमस्यानु
मोदनाथ प्रघोषितः ।।१०७।।
ज्ञानदर्शनचारित्र
सत्तपोविषयास्तदा । विविधाऽऽराधना भव्याः,
परैरपि प्रघोषिताः ।।१०८।।
बापालालेन सङ्घस्य,
सचिवेन प्रघोषितः । अन्वयेन तु सङ्घस्य
जिनभक्तिमहोत्सवः ।।१०९।।