________________
२१५
_ समतामहोदधिः महाकाव्यम् धर्मयुक्तान्तरात्खण्डा
बाह्यखण्डे किलासनम् । तेषां साधुभिरानीतं,
शीतलताकृते ततः ।।७७॥
ताप आधिनमासस्य,
सौराष्ट्रेषु भयङ्करः । एकतो गलकं रुद्धं,
कथं सोढव्यमन्यतः ।।७८।।
पापकर्माणि बद्धानि,
जन्तुना हसता सता । मुच्यन्ते रुदता सत्या,
लोकोक्तिरिति भासते ।।७९ ।।
निखिलं जीवनं येषा
मभवत्साधनामयम् । सह्या कर्मविपाकेन,
तेनाऽपि वेदना यदि ।।८।।