________________
२१३
समतामहोदधिः महाकाव्यम
प्रभाते दहनं शान्त
मल्पसमयमस्वपन् । ततस्ते परमारब्धा,
देहेऽन्या अपि वेदनाः ।।७३॥
तेषां सङ्कुचिताऽऽहार
नलिका सर्वथा ततः । पातुं धर्मणि शक्ता न,
बिन्दुमपि जलस्य ते ।।७४।।
इत्थमन्नजले रुद्धे,
द्वितीयेऽह्नि प्रगेऽभवत् । वान्तिर्विकृतरक्तस्य,
तदस्वास्थ्यमवर्धत ।।७५॥
सुवैद्यो बूच आहूत
स्तान्विलोक्येति सोऽवदत् । अन्तिमसमयस्तेषां,
समीपे वर्तते किल ।।७६।।