________________
२११
समतामहोदधिः महाकाव्यम्
जनेषु प्रसृता वार्ता,
यत्तैरनशनं कृतम् । तैः प्रेषितानि पत्राणि,
पारणकारणाय तत् ।।६९।।
विमुक्तस्वाग्रहैस्तैः श्री
पूज्यानामाज्ञया कृतम् । पारणमुपवासानां,
चतुरधिकविंशतः ।।७०॥
तृतीये दिवसे जात
मपूर्वं दहनं तनौ । अतीववेदनाकारि,
शान्तं केनाऽपि नैव तत् ।।७१।।
अशक्नुवन्न निद्रातुं,
क्षणमपि तु ते निशि । नमस्कारजपे जाता,
ध्याने च किन्तु तन्मयाः ।।७२ ।। १. तैः = जनैः