________________
१९५.
- समतामहोदधिः महाकाव्यम्
वर्धिष्यन्ते यथा पीडा
स्तीव्रतरास्तथा तथा । वर्धिष्यते भृशं धैर्य,
मे शमश्चेति निश्चितम् ।।३७॥ .
इत्थमनेकशोऽसातं,
सनिमित्तमहेतुकम् । सोढवा समर्जिता तैस्तु,
विपुला कर्मनिर्जरा ॥३८॥
तत्रोपस्थितपंन्यास
श्रीहंससागरा अपि । अद्भुतां समतां दृष्ट्वा,
तदीयामतिविस्मिताः ॥३९।।
सुरेन्द्रनगरे पूज्याः ,
प्रविष्टाः शोभने दिने । चातुर्मासकृते सच,
उत्साहितोऽभवत्तदा ।।४।।