________________
१९३
अस्मरस्ते जिनानेव, निमग्नाः समतारसे ।
ततः शनैः शनैः शान्ता,
प्रगे स्तोका तु वेदना ।। ३३ ।।
तैरन्यदा शिरःपीडा
शान्त्यै गृहीतमौषधम् ।
नासिकया परं वृद्धा,
समतामहोदधिः महाकाव्यम्
तेन प्रत्युत वेदना ।।३४।।
तदा सर्वेऽपि भीतास्ते,
परन्तु मेरुनिश्चलाः ।
अवदन्दुष्टकर्मारि
मिति दुःखस्य दायकम् ।। ३५ ।।
वर्मितोऽहं सुदेवस्य,
गुरोश्च कृपया त्वया ।
प्रहर्त्तव्यं यथेष्टं न,
मे समता चलिष्यति ।। ३६ ।।