________________
१८५.
समतामहोदधिः महाकाव्यम्
शुभाज्ञया तु भानूनां,
सिद्धगिरिं प्रगच्छताम् । पद्मः प्राच्यस्य वैद्यस्य,
गृहीतमेकमौषधम् ।।१७।।
दिनैः स्तोकैः परं तस्य,
विपरिणतमौषधम् । न तत्तथाप्यमुञ्चस्ते,
गुर्वाज्ञाभङ्गभीरवः ।।१८।।
प्राच्यवैद्यौषधं त्यक्त्वा,
नव्यवैद्यस्य भैषजम् । युष्माभिस्तु ग्रहीतव्य
__मस्वास्थ्यचारुताकृते ।।१९।। तेभ्य इति कृता श्राद्धै
विज्ञप्तिस्तु तथापि तैः । नैव तदौषधं त्यक्तं,
__ गुर्वाज्ञापालने रतैः ।।२०।।।। युग्मम् ।।
१.प्राच्यो वैद्यः = आयुर्वेदानुसारेण चिकित्साकारी वैद्यः । २. नव्यो वैद्यः = 'एलोपेथी'नामाऽऽधुनिकशास्त्रानुसारेण चिकित्साकारी
वैद्यः, 'डोक्टर' इति भाषायाम् ।