________________
१७३.
प्रयत्नैः सकला जाताः,
सम्मताः सूरिपुङ्गवाः ।
स्वीकारो जन्मभूमेस्तत्
श्रीकस्तुरेण घोषितः ।। ५३ ।।
इत्थं जातं समाधानं,
. समतामहोदधिः महाकाव्यम्
तात्कालिकं तदा खलु ।
पर्व तिथिविभेदस्य,
हृष्टाः सङ्घजनास्ततः ।। ५४ ।।
भाद्रपदस्य पञ्चम्याः,
सिताया: प्रक्षये परम् ।
भाविकाले त किं भावि ?
ह्यशङ्कन्त जना इति ।। ५५ ।।
वैराग्यसागर-जिनेश्वरभक्तिदक्ष
हेमेन्दुरिशिशुना रचिते सुभक्त्या । पंन्यासपद्मविजयस्य चरित्रकाव्ये,
षष्ठं जिनस्य कृपया ह्यभवत्सुपद्मम् ।। ५६ ।