________________
१७१
_ समतामहोदधिः महाकाव्यम्
सम्मेलनमितो जातं,
निष्फलं राजपत्तने । अतीव तेन सञ्जातः,
सङ्घो दुःखी शुचाकुलः ।।४९ ।।
स्वीयमतस्य पक्षौ द्वौ,
प्रचारं कर्तुमुद्यतौ । तदा यत्नमकुर्वातां,
नानाप्रकारहेतुभिः ।।५०॥
भाद्रपदस्य चण्डांशु
चण्डवाख्यतिथिदर्पणे । प्रक्षयः सितपञ्चम्या,
मूलभूतो भिदोऽभवत् ।।५१॥
स क्षयो जन्मभूमौ न,
दर्शितस्तिथिदर्पणे । तत्स्वीकारे समाधानं,
स्यात्केनापीति सूचितम् ।।५२।। १. तत्स्वीकारे = जन्मभूमितिथिदर्पणस्वीकारे ।