________________
१६९
समतामहोदधिः महाकाव्यम्
विलीना किरणैर्ग्रन्थि
रारभन्त ततः परम् । मस्तकवेदनादेह
दहनवमनादयः ।।४५।।
अर्ध्या ते मस्तकस्याऽऽर्ता,
न स्वपितुमशक्नुवन् । प्रकृतेष्वप्युपायेषु,
तेषां शान्ता न वेदनाः ।।४६।।
तेषां संयमिभिः सेवा,
प्रयत्नेन कृता सता । गौणीकृत्याऽपि वाणिज्यं,
श्रावकैरपि सुन्दरा ।।४७।।
प्रयत्नाः सकला जाता,
दैवात्परन्तु निष्फलाः । वृद्धिः प्रत्युत रोगस्य,
सन्तापकृदजायत ।।४८॥
१. सता = शोभनेन (प्रयत्नेन)