________________
१६३
___ समतामहोदधिः महाकाव्यम् वार्षिकपर्वभेदोऽपि,
द्वितीयाब्दे भविष्यति । इति ज्ञात्वा तदा पूज्याः,
सङ्घस्यैक्यकृतेऽयतन् ।॥३३॥
त
ततस्तैः सर्वसाधूनां,
सम्मेलनं सुनिश्चितम् । दिनेऽक्षयतृतीयायाः,
__ श्रीराजनगरे शुभे ।।३४।।
चातुर्मासे विना विघ्नं,
श्रीपद्मविजयैः कृताः । उपवासाः समाध्यर्थं,
चतुर्भिरधिका दश ।।३५।।
रोगस्य विक्रियास्तेषां,
चातुर्मासादनन्तरम् । प्रादुर्भूताः पुनर्देहे,
दुःखदा वमनादिकाः ।।३६।।