________________
१५५
_ समतामहोदधिः महाकाव्यम्
स्वागतं प्रकृतं भव्यं,
सङ्घनाऽऽनन्दपूर्वकम् । तेषां सपरिवाराणां,
प्रारब्धस्तत उत्सवः ।।१७।।
पारणं पूज्यनिश्रायां,
भव्यतया तपस्विनोः । जातञ्च कृतवान्सङ्घ
स्तयोर्भूर्यनुमोदनाम् ।।१८॥
उपधानतपः श्राद्धो,
____रुग्नाथपुत्रहिम्मतः । परे कारितवाँस्तीर्थे,
शङ्खधरे सुभावितः ।।१९।।
तेन तत्र धनं सर्वं,
स्वकीयं व्ययितं तथा । हृदयेनात्युदारेण,
समधिको व्ययः कृतः ।।२०।।