________________
१५१
_ समतामहोदधिः महाकाव्यम
उपदेशं ततो दत्त्वा,
सार्धद्विवादने कृतम् । एकाशनं स्वकीये तैः,
शरीरेऽप्यतिनिःस्पृहैः ।।९।।
उपदेशं ततो दत्त्वा,
सार्धत्रिवादने पुनः । तैरहंदालयाः सर्वे,
भक्तिभावेन वन्दिताः ।।१०।।
श्रीपूज्यैः सह सन्ध्यायां,
तस्मिन्नेव दिने ततः । ग्रामाविहृतवन्तस्ते
गुरुसेवारताः सदा ।।११॥
अयमेकस्तु दृष्टान्त
स्तेषां जीवन ईदृशाः । प्रसङ्गा नैक आगच्छन्,
सदा विनयशालिनाम् ।।१२।।