________________
१३१
समतामहोदधिः महाकाव्यम्
कार्तिककृष्णषष्ठ्यां तु,
पूज्यदीक्षादिने तदा । सर्वैः संयमिभिः शुद्ध
माचामाम्लं तपः कृतम् ।।३३।।
भानुभिर्देशनायां तु,
पूज्यानां वर्णिता गुणाः । अपराहणे च पूज्याना
ममीलन्मुनयोऽन्तिके ।।३४॥
हितशिक्षाप्रदानार्थं,
पूज्याः संयमिभिस्तदा । विज्ञप्तास्तैश्च बाष्पार्द्र
नयनैः कथितं ततः ।।३५।।
अहं गुणविहीनो मे,
करणीयं न वर्णनम् । पूर्वमहर्षिणां कार्यो,
गुणवादस्त्वतः परम् ।।३६।।