________________
१२९
समतामहोदधिः महाकाव्यम्
बहुपुराणि संस्पृश्य,
ते प्राप्ता नासिकं पुरम् । श्रीपूज्यैः सह सर्वेषां,
स्वागतं तत्र चाऽभवत् ।।२९।।
ज्ञानस्य सत्रमारब्धं,
'शिबिरं' नाम भानुभिः । युवानो येन संस्कारा
ननेके प्राप्नुवस्तदा ॥३०॥
तत्र नसश्च पद्माना,
रक्तपातोऽभवद्भृशम् । तैर्दादरे चिकित्सार्थं,
चातुर्मासं कृतं ततः ।।३१।।
अहमदपुरे पूज्य
चातुर्मासस्तदाऽभवत् । प्रसङ्गः खलु तत्रैकः,
शोभनां घटितोऽन्यदा ।।३२।।
१. तत्र = दादरपुरे ।