________________
१२३ -
समतामहोदधिः महाकाव्यम्
केन्सरो गण्यतेऽसाध्य,
आमयस्तीव्रवेदनाः । उत्पादयति देहे स,
नाम्नैव प्राणनाशकः ।।१७।।
केन्सरस्य निदाने तु,
जातेऽपि स्वस्थमानसाः । श्रीपद्मा अधिकं जाताः,
सावधानास्ततः परम् ।।१८।।
उपचाराः सुवैद्यस्य,
तैः प्रारब्धाः परन्तु ते । विपरीता अजायन्त,
सर्वे वृद्धाश्च वेदनाः ।।१९।।
स्वपता कारितो लोच
स्तैः पर्युषणपर्वणि । पीडा अन्येन वैद्येन,
प्रान्ते तेषां निवारिताः ।।२०।।