________________
१२१
_ समतामहोदधिः महाकाव्यम्
उपदेशैस्तु भानूनां
तत्र रागविनाशकैः । पुण्यात्मनामनेकेषां,
जीवनं परिवर्तितम् ।।१३।।
मुमुक्षू रमणीकाख्यो,
राजेन्द्रविजयो मुनिः । वैशाखशुक्लषष्ठयां तु,
दीक्षां लब्ध्वा तदाऽभवत् ।।१४।।
श्रीपद्मानां गता वृद्धि,
तदा रोगस्य वेदनाः । ते तथापि क्रियाः सर्वाः,
कृतवन्तो यथाविधि ।।१५।।
कोऽपि वैद्यो निदानं न,
शक्तः कर्तुं रुजः खलु । प्रज्ञातः केन्सरो रोगो,
वैद्येन हरिणा परम् ।।१६।।