________________
११९.
समतामहोदधिः महाकाव्यम्
पद्मा दीर्घविहारेषु,
श्रीप्रेमैर्मन्दगामिभिः । सार्धं चलितवन्तस्तु,
गुरुभक्तिपरायणाः ।।९।।
एकाशनान्यकुर्वंस्ते,
दत्तवन्तश्च देशनाः । असाध्येन च घोरेण,
रोगेण पीडिता अपि ।।१०।।
मूलचन्दो युवा पूज्यैः,
राणपुरे तु दीक्षितः । जातः स भद्रगुप्तादि
विजयश्च मुनिस्ततः ।।११।।
प्रवेशो लालबागे तु,
मङ्गलोत्सवपूर्वकम् । तैरक्षयतृतीयानि,
मुम्बापुर्यां कृतः शुभे ।।१२।।