________________
११७
समतामहोदधिः महाकाव्यम्
संवेगरसवर्धिन्यो,
देशनास्तत्र चाऽभवन् । प्राप्ताः श्रीप्रेमसूरीशा,
लिम्बडीनगरे ततः ।।५।।
श्रीपद्मविजयास्तत्र,
पीडिताः शीर्षपीडया । तदा केन्सररोगस्य,
प्रारम्भः समजायत ।।६।।
सङ्कल्पितं गिरौ सिद्धे,
प्रेमसूरीश्वरैरितः । दीक्षितव्या विशुद्धानां,
सुयूनां पञ्चविंशतिः ।।७।।
उद्धारार्थमतो जैन
शासनस्य गताः पुरीम् । मुम्बां पूज्यास्तु तैः सार्धं,
श्रीपद्मविजया अपि ।।८।।