________________
११५.
पञ्चमं पद्मम्
अतो रोगदशाभावि,
तदीयं साधनामयम् ।
विशिष्टं कीर्त्तयिष्यामि,
सत्त्वविराजि जीवितम् ।।१।।
• समतामहोदधिः महाकाव्यम्
षट्शून्यखद्विवर्षे तु, पालिताणापुरे वरे ।
चातुर्मासं कृतं पूज्यैः,
सुमण्डिते जिनालयैः ।।२।।
श्रीपद्मविजयास्तत्र,
सहैव तैस्तदाऽवसन् ।
आर्त्ता ज्वरेण सञ्जाता,
दिपालिकादिनेषु ते ।।३॥
पूज्या जितक्रुधः प्राप्ता-,
श्चातुर्मासादनन्तरम् ।
भावपुरे विशालेन,
परिवारेण सङ्गताः । । ४ । ।
।।४।।