SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ११३. . समतामहोदधिः महाकाव्यम् चरित्रनायक - पंन्यासप्रवर श्रीपद्मविजय-परार्थगच्छसेवा-क्रियातत्परता- शिष्यपरिवारादि- वर्णनमयं चतुर्थं पद्मं समाप्तम् । X पं. पद्मविजयानाममृतवचनम् किङ्करो भारं वहति, स कष्टं सहते, स श्राम्यति । अवसरे स भारं विमुच्य विश्राम्यति । साधुत्वे तु सर्वं विपरीतं द्रष्टव्यम् । तत्र संयमभारो वोढव्यः । स कदाचिदपि न मोक्तव्यः, नापि पार्श्वे स्थापनीयः, किन्तु यावज्जीवं निरन्तरं वोढव्यः । तत्र नेषदपि श्रमितव्यम् । महाव्रतभारः सोत्साहं वोढव्यः । यदि व्रतभारवहने साधुः श्राम्यति सोल्लासं च न प्रवर्त्तते तर्हि स भारो मेरुरिव गुरुतमो भासिष्यते । फलत आत्मा पराजेष्यत्यान्तरशत्रवश्च दृढा भविष्यन्ति । 'पद्मपरिमल: ।'
SR No.002349
Book TitleSamta Mahodadhi Mahakavyam
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages396
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy