________________
१०१
समतामहोदधिः महाकाव्यम्
क्रियातत्परतासाधना ।
पञ्चसमितयस्तिस्रो,
गुप्तयश्च प्रकीर्तिताः । अष्टौमहर्षिभिर्जेन
प्रवचनस्य मातरः ।।२८॥
पौद्गलिकं यथा देहं,
माता सूतेऽर्भकस्य तु । व्रतदेहं तथा सूते,
साधोः शासनमातरः ।।२९।।
श्रीप्रेमा अभवन्नासां,
पालने ह्यप्रमादिनः । तथा कदाचिदात्मानं,
क्षतौ सत्यामदण्डयन् ।।३०।।
आचामाम्लमकुर्वंस्ते,
विस्मृते प्रतिलेखने । यतिचिह्नस्य चारित्र
निष्ठाः क्रियापरायणाः ॥३१॥