________________
समतामहोदधिः महाकाव्यम्
सूरिप्रेमैः सहाऽपास्तुं,
बालदीक्षाविरोधिनम् । निर्णयं यतवन्तस्ते,
सफलास्तत्र चाऽभवन् ।।२४।।
परिवेषितवन्तस्ते,
भोजनं साधुमण्डले । चिन्ताकृतस्तु साधूनां,
सर्वत्र पितराविव ॥२५॥
सर्वेषां हृदये स्थानं,
सम्प्राप्तमत एव तैः । अतिधन्यैश्च धन्येभ्यो,
गुर्वनुकूलजीविभिः ।।२६॥
गुरवो हृदये तेषां,
न्यवसन्सततं यथा । गुरूणां हृदये तेऽपि,
न्यवसन्सततं तथा ।।२७।।