________________
९५
_
समतामहोदधिः महाकाव्यम्
गच्छसेवासाधना ।
गच्छस्य प्रेमसूरीशै
महतो निर्मितस्य ते । कृतवन्तः सदा योग
क्षेमौ सेवापरायणाः ।।१६।।
ते मुनीन्सर्वयोगेषु,
निष्णातान्समपादयन् । विदुषः केवलं नैव,
शास्त्राध्ययनतत्परान् ।।१७।।
भक्तिविनययोर्दक्षाः,
सुवैयावृत्त्यकारिणः । ततश्च समजायन्त,
तैनिर्मितास्तु साधवः ।।१८।।
केन्सरेण यदा तेषां,
संरुद्धा वाक्तदाऽपि ते । लिखित्वा श्राद्धसाधुभ्यः,
प्रेरणा अददुः शुभाः ।।१९।।