________________
९३ -
समतामहोदधिः महाकाव्यम्
संस्करणकृते साधून्,
श्रीप्रेममुनिपा अपि । पद्मभ्यः प्राददुस्तत्र,
दक्षा आसन्भृशं हि ते ।।१२।।।
साधूनां पाठनं रात्रि
स्वाध्यायकारणं तथा । प्रेरणं संयमे धर्मे,
श्राद्धानाञ्च नियोजनम् ।।१३।। दृढीकरणमित्याद्या,
अभवन्सकलाः कलाः । विजयान्तिमपद्मानां,
हस्तसिद्धास्तु सर्वदा ।।१४।।युग्मम्।।
त आसन्सर्वयोगेषु,
सर्वकलासु पारगाः । सुगुरुहृदये प्राप्त
स्थाना गुणभृतस्तथा ।।१५।।