________________
११४
तिक्रमाः ॥ ३१ ॥ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ३२ ॥ अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३३ ॥ विधिद्रव्यदातृपात्र विशेषात्तद्विशेषः ॥ ३४ ॥
इति श्रीतत्त्वार्थाधिगमेऽईत्प्रवचनसंग्रहे सप्तमोऽध्यायः
·()
अष्टमोऽध्यायः
मिध्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १ ॥ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ॥ २ ॥ स बन्धः ॥ ३ ॥ प्रकृतिस्थित्यनुभाव प्रदेशास्तद्विधयः ॥ ४ ॥ भद्यो ज्ञान - दर्शनावरणवेदनीयमोहनीयायुकनामगोत्रान्तरायाः ॥ ५ ॥ पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद् द्विपञ्चभेदा यथाक्रमम् ॥ ६ ॥ मत्यादीनाम् ॥ ७ ॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रच लाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥ ८ ॥ . सदसद्वेद्ये ||९|| दर्शनचारित्रमोहनीयकषायनोकषाय वेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिध्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पा' चैकशः क्रोधमानमायालोभा हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः ॥ १० ॥ नारकतैर्य - ग्योनमानुषदेवानि ॥ ११ ॥ गतिजातिशरीरांगोपांगनिर्माण बन्धनसंघातसंस्थान संहननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलधूपघातपराघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीर ससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च ॥ १२ ॥ उच्चैर्नीचैश्च || १३ || दानादीनाम् ॥ १४ ॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटी कोट्यः परा स्थितिः ।। १५ ।। सप्ततिर्मोहनीयस्य ॥ १६ ॥ नामगोत्रयोविंशतिः ॥ १७ ॥ त्रयस्त्रिंशत्सागरोपमाण्या