________________
ॐ श्री नमस्कार-महामन्त्राष्टकम् ॥ [कर्ता-पूज्याचार्यदेव श्रीमद् विजय सुशीलसूरिः]
(अनुष्टुप् छन्दः) नमस्कार-महामन्त्र, सनातनं च शाश्वतम् । प्रोक्त जिनेश्वरैर्देवैः, प्रख्यातं भुवनत्रये ।। १ ।। मन्त्रषु मुख्यमन्त्र वै, न कोऽपि तुल्यकं तथा । निखिलमङ्गलेष्वेव, प्रथमं मङ्गलं वरम् ।। २ ।। श्रीअर्हद्भ्यो नमो नित्यं, श्रीसिद्धेभ्यो नमः पुनः । प्राचार्येभ्यो नमो भक्त्या, वाचकेभ्यो नमस्तथा ।। ३ ।। लोके समस्तसाधुभ्यो, नमो नित्यं पुनः पुनः । एतद् महाश्रुतस्कन्धं, श्री पञ्चपरमेष्ठिनम् ।। ४ ।। सर्वविघ्नहरं नित्यं, सर्वपापप्रणाशकम् । सर्वदुःखहरं चैव, सर्वकर्मविनाशकम् ।। ५ ।। सकल-ऋद्धिदातारं, सर्वसिद्धिप्रदायकम् । कामदं मोक्षदं चैव, मनोवाञ्छितपूरकम् ।। ६ ।। एतद् मन्त्र स्मरेद् देवाः, दानवाश्च नपाः नराः । योगिनो भोगिनश्चैव, रंकादयोऽपि सर्वदा ।। ७ ।। जिनेन्द्र-द्वादशाङ्गीनां, रहस्यं तदेतस्मिनपि । श्रीचतुर्दशपूर्वाणां. पूर्णसारं हि मन्त्रके ।। ८ ।। इदं मन्त्राष्टकं नित्यं, पठनात् स्मरणात् तथा । जापाच्च सोऽपि प्राप्नोति, सुशीलपदमव्ययम् ।। ६ ।।
( २० )