________________
श्री महादेव-स्तुत्यष्टकम् [कर्ता-पूज्याचार्य श्रीमद् विजय सुशील सूरीश्वरजी म.सा.]
(अनुष्टुप-वृत्तम्) जगत्पूज्यं जगन्नाथं, जगद्गुरुं जिनेश्वरम् । निरञ्जनं निराकारं, महादेवं नमामि तम् ॥ १॥ राग-द्वष-विनिर्मुक्त, क्रोध-मानविनिर्जितम् । माया-लोभभयान्मुक्त, महादेवं नमामि तम् ॥ २ ॥ सुरासुरनरैः सेव्यं, सिद्ध बुद्ध शिवङ्करम् । सर्वगुणनिधानं वै, महादेवं नमामि तम् ॥ ३ ॥ यस्य मूत्तिर्महारम्या, प्रशान्तं दर्शनं शुभम् । वदनपूर्णिमाचन्द्रं, महादेवं नमामि तम् ॥ ४॥ यस्य नेत्रद्वयं रम्यं, निर्विकारं च निर्मलम् । तथाष्टमोन्दुभालं वै, महादेवं नमामि तम् ॥ ५ ॥ यस्य करद्विकं श्रेष्ठं, शस्त्रादिरहितं सदा। तथा स्त्रीसङ्गशून्याडू, महादेवं नमामि तम् ॥ ६ ॥ चारित्रमुत्तमं यस्य, सर्वभूताऽभयप्रदम् । माङ्गल्यं च प्रशस्तं बै, महादेवं नमामि तम् ॥ ७ ॥ अष्टकर्मविनिर्मुक्त केवलज्ञानसंयुतम् । कामदं मोक्षदं चापि, महादेवं नमामि तम् ॥ ८ ॥
(हरिगीत-वृत्तम्) तपगच्छनायकनेमि - लावण्य - दक्षसूरिवराणां, पट्टधराचार्य-सुशील-सूरिणा सुप्रसन्न-मनसा । विधिकारक-श्रीमनोजकुमार-प्रार्थनया रचितं, महादेवस्तुत्यष्टकमिदं, सर्वमङ्गलसिद्धिदम् ॥६॥5