________________
[ ५३ ] रससंसृष्टानि 'मुदियारसियाणि य' त्ति मृद्वीकारससंसृष्टानि एवं कपित्थरसिकानि दाडिमरसिकानि मच्छरसिकानि तलितानि-तैलादिनाऽग्नौ संस्कृतानि 'भज्जियाणि य'त्ति अग्निनाभ्रस्तानि 'सोल्लियाणि य' त्ति शूले पक्वानि ‘मच्छरसए ' त्ति मत्स्यमांसरसस्य सम्बन्धिनो रसान् 'एणिज्जरसए य' त्ति मृगमांसरसान् ‘तित्तिर' त्ति तित्तिरसत्करसान् यावत्करणात् 'वट्टयरसए य लावयरसए य' इत्यादि दृश्यं, 'हरियसागं' ति पत्रशाकं 'ज०' इत्यस्यायमर्थः-जलयरमंसेहिं खहयरमंसेहिं 'तलि. भज्जि० च' अयमर्थः- तलिएहि भन्जिएहिं ।
'चिंत' त्ति मनोरथोत्पत्तिर्वाच्या, धण्णाओ णं ताओ अम्मयाओ कयत्थाओ इत्यादिरूपा यथा गङ्गदत्तायाः सप्तमाध्ययनोक्तायाः, 'आ पुच्छण' त्ति भर्तुरापृच्छा 'तं इच्छामि गं तुब्भेहिं अब्भणुन्नाया' इत्यादिका, ‘ओवाइयं ' ति उपयाचितं वाच्यं, दोहदोऽपि गङ्गदत्ताया इव वाच्य इति ।
[पृ. ६०] ' एगठियाहिं 'ति नौभिः 'दहगलणेहि ये' त्यादि एगट्ठियं भरेंती येतदन्तं रूढिगम्यं, तथाऽपि किञ्चिल्लिख्यते-हूदगलनंहृदस्य मध्ये मत्स्यादिग्रहणार्थ भ्रमणं जलनिःसारणं वा हृदमलनं-हदस्य मध्ये पौनःपुन्येन परिभ्रमणं जले वा निःसारित पङ्कमईनं थोहरादिप्रक्षेपेण ह्रदजलस्य विक्रियाकरणं हृदमथनं-हूदजलस्य तरुशाखाभिर्विलोडनं हृदवहनं-स्वत एव हूदाजलनिर्गमः हृदप्रवहणं-हूदजलस्य प्रकृष्टं वहनं प्रपञ्चपुलादयो मत्स्यबन्धनविशेषाः गलानि-बडिशानि