SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ [ 49 ] सरन्ति मुग्धकानीति, पुनश्च कोमलं यत्कमलं तेनोपमा ययोस्तौ तथा ताम्यां हस्ताम्यां गृहीत्वा उत्सङ्गनिवेशितानि ददति समुल्लापकान् सुमधुरान् शब्दतः पुनः पुनर्मलप्रभणितान् - मञ्जुलानि - कोमला प्रभणितानि -भणनारम्भा येषु ते तथा तानू, [पृ. ५४ ] ' अपुन्न त्ति अविद्यमानपुण्या यतः ' अकयपुण्ण ' त्ति अविहितपुण्या अथवा ' अपुण्ण ' त्ति अपूर्णमनोरथत्वात् 'एत्तो' त्ति एतेषां बालकचेष्टितानाम् ' एगयरमवि' एकतरमपि - अन्यतरदपीति, ' कल्लं ' इत्यत्र यावत्करणात् ' पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलिए अहपंडुरे पभाए' इत्यादि दृश्यम् 'उट्टिए सहस्सरस्सिंमि दिणयरे तेयसा जलते ' इत्येतदन्तं, तत्र प्रादुः प्रभातायां -प्रकाशेन प्रभातायां फुल्लं विकसितं यदुत्पलं - पद्मं तस्य कमलस्य च - हरिणस्य कोमलं - अकठोरम् उन्मीलितं - दलानां नयनयोश्वोन्मेषो यत्र तत्तथा तत्र, शेषं व्यक्तम् । ' जायं च ' त्ति वागं पूजां यात्रां वा 'दायं च ' दानं 'भायं च ' लाभस्यांशम् ' अक्खयणिहिं च' त्ति देवभाण्डागारम् 'अणुवडिस्सामि ' त्ति वृद्धिं नेष्याभि, 'इति कट्टु ' एवं कृत्वा ' ओवाइथं ' ति उपयाचितम् ॥ [प्र.५५ ] उचाइणित्तए ' उपयाचितुमिति । ' कयकोउयमंगल ' त्ति कौतुकानि - मषी पुण्ड्रकादीनि मङ्गलानि दध्यक्षतादीनि ' उल्लपडसाडिय ' त्ति पट:-प्रावरणं साटको - निवसनं
SR No.002313
Book TitleVivagsuyam
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy