________________
[ ४६ ] __ 'कडि ( कडग ) सक्कराण य' त्ति वंशशलाकानां ' चम्मपट्टाण य' त्ति वर्द्राणाम् — अल्लपल्लाण य ' त्ति अलीनां-वृश्चिकपुच्छाकृतीनां 'डंभणाण य' त्ति यैरग्निप्रतापितैलॊहशलाकादिभिः परशरीरऽङ्क उत्पाद्यते तानि दम्भकानि 'कोट्टिलाणं' ति हुस्वमुद्गरविशेषाणां ॥
'पच्छाण य' त्ति प्रच्छनकानां 'पिप्पलाण य' त्ति हस्वक्षुराणां कुठारा नखछेदनकानि दर्भाश्च प्रतीताः ।
'अणहारए य' त्ति ऋणधारकान् ‘संडपट्टे य' त्ति धूर्तान् ।
[पृ. ४८.] ' अप्पेगइ य ' त्ति अप्येककान् कांश्चिदपीत्यर्थः, 'पज्जेइ' त्ति पाययति 'अप्पेगइयाणं तेणं चेव ओवीलं दलयइ ' तेनैव अवपीड-शेखरं मस्तके तस्यारोपणात् उपपीडां वा-वेदनां दलयति-करोति 'संकोडियमोडिए' त्ति सङ्कोटिताश्च-सकोचिताङ्गा मोटिताश्च-चलिताङ्गाः इति द्वन्द्वोऽतस्तान् ‘अप्पेगइए हत्यछिन्नए करेइ ' इत्यत्र यावत्करणादिदं दृश्यं-' पायच्छिन्नए एव नकउटुजिब्भसीसछिन्नए' इत्यादि, ' सत्थोवाडियए' त्ति शस्त्रावपाटितान्खड्गादिना विदारितान् ' अप्पेगइया वेणुलयाहिं ' इत्यत्र यावत्करणात् — वेत्तलयाहि य चिंचलयाहिं' इत्यादि दृश्यम् । ___'उरे सिलं दलाई ' त्यादि, उरसि पाषाणं दापयति तदुपरि लगुडं दापयति ततस्तं पुरुषाभ्यां लगुडोभयप्रान्तनिविष्टाभ्यां लगुडमुत्कम्पयति-अतीव चलयति यथाऽपराधिनोऽस्थीनि दल्यन्त इति भावः ।