________________
[ ४४ ]
॥ नन्दिवद्धणे ॥ [पृ. ४५ ] ' चित्तं बहुविहं । ति आश्चर्यभूतं बहुप्रकार चेत्यर्थः 'अलंकारियकम्म' ति क्षुरकर्म 'सव्वट्ठाणेसु' त्ति शय्यास्थानभोजनस्थानमन्त्रस्थानादिषु आयस्थानेषु वा शुल्कादिषु 'सव्वभूमियासु' त्ति प्रासादभूमिकासु सप्तमभूमिकावसानासु पदेषु वा-अमात्यादिषु ।
'दिनवियारे' त्ति राज्ञाऽनुज्ञातसंचरणः अनुज्ञातविचारणो वा॥
[पृ. ४६ ] ' कलकलभरिएहिं ' ति कलकलायत इति कलकलं-चूर्णादिमिश्रजलं तद्गतैः, तप्तं अयोमयमित्यादि विशेषणम् ।
'हारं पिणद्धति ' त्ति परिधापयन्ति, किं कृत्वा ! इत्याह-अयोमयं संदंशकं गृहीत्वेति, तत्र हारः अष्टादशसरिकः ।। ___'अट्टहारं' ति नवसरिकः, यावत्करणात् 'तिसरियं पिणद्धति पालंबं पिणद्धति कडिसुत्तयं पिणद्धति' इत्यादि, त्रिसरिकं प्रतीतं प्रालम्बो-झुम्बनकं कटीसूत्रं व्यक्तं 'पट्ट' ति ललाटाभरणं मुकुटं-शेखरकः 'चिंता तहेव 'त्ति तं पुरुषं दृष्ट्वा गौतमस्य विकल्पस्तथैवाभूत् यथा हि प्रथमेऽध्ययने, तथाहि-न मे दिवा नरया वा नेरइया वा, अयं पुण पुरिसे निरयपडिसूवियं वेयणं वेएइ' त्ति, यावत्करणा देवं दृश्यम्-'अहापजत्तं भत्तपाणं पडिगाहेइ जेणेव समणं भगवं तेणेव उवागच्छइ ' इत्यादि