________________
[ २४ ] त्ति पाठान्तरं, तत्र विमनस इव विगतचेतस इव वदनं यस्याः सा तथा, दीना चासौ विमनबदना चेति समासः, 'पंडुल्लइयमुहा' पाण्डुकृतमुखी पाण्डुरीभूतवदनेत्यर्थः 'ओमंथियणयणवयणकमले ' त्ति 'ओमंथिय' त्ति अधोमुखीकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, 'ओहय 'त्ति 'ओहयमणसंकप्पा' विगतयुक्तायुक्तविवेचनेत्यर्थः, इह यावत्करणादिदं दृश्यं-' करतलपल्लत्थमुहा' करतले पर्यस्तंनिवेशितं मुखं यया सा तथा — अइज्झाणोवगया भूमीगयदिट्ठीया झियाइ' त्ति ध्यायति-चिन्तयति ॥
'इमं च णं' ति इतश्चेत्यर्थः 'भोमे कूडग्गाहे जेणेव उप्पला कूडग्गाही तेणेव उवागच्छइ उवाच्छित्ता उप्पलं कूडग्गाहिणि
ओहयमणसंकप्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्ण कृत्वाऽ. ध्येयं, सूचीमात्रत्वात्पुस्तकस्य ॥
[पृ. २०.] 'ताहिं इट्ठाहिं' इत्यत्र पञ्चकलक्षणादकादिदं दृश्यं- कंताहिं पियाहिं मणुन्नाहिं मणामाहिं ' एकार्थाश्चैते, ' वग्गूहिं' ति वाग्भिः 'एगे' त्ति सहायाभावात् ' अबीए ' त्ति धर्मरूपसहायाभावात् ॥
‘सन्नद्धबद्धवम्मियकवए' पूर्ववत् यावत्करणात् 'उप्पीलियसरासणपट्टीए' इत्यादि 'गहियाउहप्पहरणे' इत्येतदन्तं दृश्यम् ।। ___ 'संपुनदोहल' त्ति समस्तवाञ्छितार्थपूरणात् ' सम्माणियदोहल' त्ति वाञ्छितार्थसमानयनात् ‘विणीयदोहल' त्ति वाञ्छाविनय