________________
१०१
आदानानि वा बन्धहेतव इत्यर्थः । इति कर्मायतनानि कर्मादानानि वा पाठान्तरेण 'कम्मावयणेहिं ' ति तत्र कर्मापतति आत्मनि संभवति तानि तथा ।, [ पृष्ट० ५३. ]
(२२) अष्टमे तु किमपि लिख्यते-'रयणावलि' त्ति रत्नावली आभरणविशेषः । रत्नावलीव रत्नावली। यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्ता भवति, पुनर्मध्यदेशे स्थूलविशिष्टमण्यलङ्कता च भवति, एवं यत्तपः पट्टादावुपदृश्यमानमिममाकारं धारयति तद्रत्नावलीत्युच्यते। तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमं त्रिभिः। ततोऽष्टौ षष्ठानि,तानि च स्थापनायां चत्वारि चत्वारि कृत्वा पङ्कित्रयेण नव कोष्टकान् कृत्वा मध्यकोष्टे शुन्यं विधाय शेषेस्वष्टास्वष्ट षष्ठानि रचनीयानि। ततश्चतुर्थादि चतुस्त्रिंशत्तमपर्यन्तं । चतुस्त्रिंशत्तमं च षोडशभिरुपवासैः। ततो रत्नावलीमध्यभागकल्पनया चतुस्त्रिंशत्षष्ठानि, एतेषां स्थूलमणितया कल्पितत्वात् , एतानि चोत्तरार्धेण द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवाऽष्टाभिः षड्भिश्च रेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शुन्यं कृत्वा शेषेषु चतुस्त्रिंशत्षष्ठानि स्थापनीयानीति । एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि पुनरप्यष्ट च षष्टानि। स्थापना त्वेषां पूर्ववत् । पुनरण्यष्टमषष्ठचतुर्थानीति । प्रथमायां परिपाट्या सर्वकामगुणितं पारयति। तत्र सर्व कामगुणा अभिलषणीया रसादिगुणाः साता यस्मिन् तत्तथा सर्वरसोपेतमित्यर्थः। भोजन मिति गम्यते । पारणकसंग्रहगाथा-' पढमंमि सव्वकामं पारणयं बीइए