________________
स्तोत्र-रास-संहिता
परप्राणः परमामृतसिद्धिदः ||६|| अजः सनातनः शम्भुरीश्वरश्च सदाशिवः । विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः ||७|| साकारश्च निराकारः, सकलो निष्कलोऽव्ययः । निर्ममो निर्विकारश्च, निर्विकल्पो निरामयः ||८|| अमरश्चाजरोऽनन्त, एकोऽनन्तः शिवात्मकः । . अलक्ष्यश्चैव वामेयो, ध्यानलक्ष्यो निरंजनः ॥९॥ ॐ काराकृतिरव्यक्तो, व्यक्तरूपस्त्रयीमयः। ब्रहृदयप्रकाशात्मा, निर्मयः परमाक्षरः ॥१०|| दिव्यतेजोमयः शान्तः परामृतमयोऽच्युतः । आढ्योऽनाढ्यः परेशानः, परमेष्ठी परः पुमान् ||११|| शुद्धस्फटिकसंकाशः, स्वयंभूः परमाच्युतः । व्योमाकारस्वरूपश्च, लोकालोकावमासकः 1|१२|| ज्ञानात्मा परमानन्दः, प्राणारूढो मनःस्थितिः । मनःसाध्यो मनोध्येयो, मनोदृश्यः परापरः ॥१३|| सर्वतीर्थमयो नित्यः, सर्वदेवमयः प्रभुः ।, भगवान् सर्वतत्त्वेशः शिवश्रीसौख्यदायकः ||१४|| इतिश्री पार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः । दिव्यमष्टोत्तरंनाम, शतमत्र प्रकीर्तितम् ||१५|| पवित्रं परमं ध्येयं, परमानन्ददायकम् । भुक्तिमुक्तिप्रदं नित्यं, पठते मंगलप्रदम् ||१६|| श्रीमत् परमकल्याण-सिद्धिदः श्रेयसेऽस्तु वः । पार्श्वनाथजिनः श्रीमान्, भगवान् परमः शिवः ||१७|| धरणेन्द्रफणछत्रालंकृतो वः श्रियं प्रभुः । दद्यात् पद्मावतीदेव्या, समधिष्ठितशासनः ||१८|| ध्यायेत् कमलमध्यस्थं, श्रीपावं