________________
स्तोत्र-रास-संहिता
दाद्यष्टकैरष्टकाष्ठाधिष्ठरलंकृतः ॥११॥ तन्मध्य-संगतो मेरुः, कूटल:रलंकृतः । उच्चै रुच्चैस्तरस्तार,-स्तारामण्डलमण्डितः ॥१२॥ तस्योपरि सकारान्तं, बीजमध्यस्य सर्वगम् । नमामि बिम्बमार्हन्त्यं, ललाटस्थं निरंजनम् ||१३|| अक्षयं निर्मलं शान्तं, बहुलं जाड्यतोज्झितम् । निरीहं निरहङ्कारं, सारं सारतरं घनम् ||१४|| अनुद्धतं शुमं स्फीतं, सात्त्विकं राजसं मतम् । तामसं चिरसंबुद्धं तैजसं शर्वरीसमम् ॥१५|| साकारं च निराकारं, सरसं विरसं परम् । परापरं परातीतं, परंपरपरापरम् ॥१६॥ एकवण द्विवर्णं च त्रिवर्णं तुर्यवर्णकम् । पञ्चवर्णं महावर्ण, सपरं च परापरं ||१७|| सकलं निष्कलं तुष्टं, निवृतं भ्रान्तिवर्जितम् । निरंजनं निराकार, निर्लेप वीतसंश्रयम् ||१८|| ईश्वरं ब्रह्मसंबुद्धं, बुद्धं सिद्धं मतं गुरुम् । ज्योतीरूपं महादेवं, लोकालोकप्रकाशकम् ||१९|| , अर्हदाख्यस्तु वर्णान्तः, सरेको बिन्दुमण्डितः । तुर्य-स्वरसमायुक्तो, बहुधा नादमालितः ॥२९|| अस्मिन् बीजे स्थिताः सर्वे, वृषमाद्या जिनोत्तमाः । वर्णनिजैनिजैर्युक्ता, ध्यातव्यास्तत्र संगताः ॥२१|| नादश्चन्द्र-समाकारो, बिन्दुर्नीलसमप्रम, । कलारुण-समासान्तः स्वर्णामः सर्वतोमुखः ॥२२॥ शिरः संलीन ईकारो, विनीलो वर्णतः स्मृतः । वर्णानुसार-संलीनं, तीर्थकृन्मण्डलं स्तुमः ॥२३॥ चन्द्रप्रम-पुष्पदन्तौ, नादस्थिति-समाश्रितौ । बिन्दुमध्यगतौ नेमि, सुव्रतो जिनस