________________
वृहद् शान्तिः-स्तोत्र
५३
सर्वे प्रीयन्तां प्रीयन्तां अक्षीण-कोश-कोष्ठागारा नरपतयश्च भवन्तु स्वाहा । ॐ पुत्रमित्रभ्रातृ-कलत्र-सुहृत्-स्वजनसम्बन्धि-बन्धु-वर्गसहिताः नित्यं चामोद-प्रमोद-कारिणो भवन्तु। अस्मिश्च भूमण्डले आयतन-निवासिनां साधुसाध्वी-श्रावक-श्राविकाणां रोगोपसर्ग-व्याधि-दुःख-दुर्मिक्षदौर्मनस्योपशमनाय शान्तिर्भवतु । ॐ तुष्टि-पुष्टि ऋद्धिवृद्धि-मांगल्योत्सवा भवन्तु । सदा प्रादुर्भूतानि दुरितानि पापानि शाम्यन्तु, शत्रवः पराङ्मुखा भवन्तु स्वाहा । श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश मुकुटाभ्यचिंताङघ्रये ||१|| शान्तिः शान्तिकरः श्रीमान्, शान्ति दिशतु मे गुरुः । शान्तिरेव सदा तेषां येषां शान्ति हे गृहे ||२|| ॐ उन्मृष्टरिष्ट-दुष्टग्रह-गति दुःस्वप्न-दुनिमित्तादि । सम्पादित-हित-संपन्नामग्रहणं जयतु शान्तेः ॥३॥ श्रीसंघ-पौर जन-पद, राजाधिप-राजसंन्निवेशानाम् । गोष्ठिक-पुरमुख्याणां, व्याहरणैाहरेच्छान्तिम् ॥४|| श्रीश्रमणसंघस्य शान्तिभवतु, श्रीपौर-लोकस्य शान्तिमवतु, श्री जनपदानां शान्तिर्भवतु, श्रीराजाधिपानां शान्तिर्भवतु श्रीराजसन्निवेशानां शान्तिर्मवतु, श्रीगोष्ठिकानाम् शान्तिर्भवतु । ॐ स्वाहा ॐ स्वाहा ॐ ह्रीं श्रीं पार्श्वनाथाय स्वाहा । एषा शान्तिःप्रतिष्ठा-यात्रा-स्नात्राद्यवसानेषुशान्तिकलशंगृहीत्वा कुंकुम-चन्दन-कर्पूरा-गुरु-धूप वास कुसुमाञ्जलि-समेतः