________________
श्रीभक्तामर स्तोत्र
४३
भूमिमागः । बद्ध-क्रमः क्रम-गतं हरिणाधिपोऽपि, नाकामति क्रम-युगाचल-संश्रितं ते ॥३५॥ कल्पान्त-काल-पवनोद्धतवहिकल्पं, दावानलं ज्वलित-मुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं, त्वन्नामकीर्तनजलं शमयत्यशेषम् ||३६|| रक्त क्षणं समदकोकिल-कण्ठनीलं, क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्कस-त्वन्नामनाग-दमनी हृदि यस्य पुंसः ॥३७|| वलगत्तुरंङ्ग-गजगर्जित-भीम-नाद, -माजौ बलं बलवतामपि भूपतीनाम् उद्यद्दिवाकर-मयूख-शिखा-पविद्धं, त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥३८|| कुन्ताग्रभिन्न-गज-शोणित-वारिवाह, वेगाव-तार-तरणातुरयोधमोमे । युद्धे जयं विजित-दुर्जय-जेय-पक्षास्-त्वत्पादपङ्कजवनायिणो लभन्ते ॥३९|| अम्मोनिधौ क्षुभितभीषणनचक्रं, पाठीनपीठ-भयदोल्वण-वाडवाग्नौ रङ्गत्तरङ्ग शिखर स्थित-यानपात्रा,-स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०|| उद्भत भीषण-जलोदर-भार भुग्नाः , शोच्यां दशामुपगताश्च्युत-जीविताशाः । त्वत्पाद-पङ्कजरजोऽमृतदिग्धदेहा, मा भवन्ति मकरध्वज-तुल्य रूपाः ॥४१|| आपाद-कण्ठ-मुरु-शृंखल-वेष्टितांगा, गाढं बृहन्निगड-कोटि-निघृष्टजंघाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगत-बन्ध-मया भवन्ति ॥४२॥ मत्तद्विपेन्द्रमृगराज - दवानलाहि, - संग्राम-वारिधिमहोदर